Shri Venkatesh Stotram Lyrics

॥अथ श्रीवेङ्कटेशस्तोत्रम्॥

कमलाकुचचूचुककुङ्कुमतो
नियतारुणितातुलनीलतनो।
कमलायतलोचनलोकपते
विजयी भव वेङ्कटशैलपते॥१

सचतुर्मुखषण्मुखपञ्चमुख
प्रमुखाखिलदैवतमौलिमणे।
शरणागतवत्सल सारनिधे
परिपालय मां वृषशैलपते॥२

अतिवेलतया तव दुर्विषहैः
अनुवेलकृतैरपराधशतैः।
भरितं त्वरितं वृषशैलपते
परया कृपया परिपाहि हरे॥३

अधिवेङ्कटशैलमुदारमते
जनताभिमताधिकदानरतात्।
परदेवतया गदितान्निगमैः
कमलादयितान्न परं कलये॥४

कलवेणुरवावशगोपवधू
शतकोटिवृतात्स्मरकोटिसमात्।
प्रतिवल्लविकाभिमतात्सुखदात्
वसुदेवसुतान्न परं कलये॥५

अभिरामगुणाकर दाशरथे
जगदेकधनुर्धर धीरमते।
रघुनायक राम रमेश विभो
वरदोभव देव दयाजलधे॥६

अवनीतनयाकमनीयकरं
रजनीकरचारुमुखाम्बुरुहं।
रजनीचरराजतमोमिहिरं
महनीयमहं रघुराम मये॥७

सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुखायममोघशरं।
अपहाय रघूद्वहमन्यमहं
न कथञ्चन कञ्चन जातु भजे॥८

विना वेङ्कटेशं न नाथो नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि।
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ॥९

अहं दूरतस्ते पदाम्भोजयुग्म
प्रणामेच्छयागत्य सेवां करोमि।
सकृत्सेवया नित्यसेवाफलं त्वं
प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश॥१०

अज्ञानिना मया दोषान्
अशेषान्विहितान् हरे।
क्षमस्व त्वं क्षमस्व त्वं
शेषशैल शिखामणे॥११

॥इति वेङ्कटेश स्तोत्रम्॥

Leave a Reply

This site is protected by wp-copyrightpro.com