॥अथ श्रीवेङ्कटेशप्रपत्तिः॥ ईशानां जगतोऽस्य वेङ्कटपतेः विष्णोः परां प्रेयसींतद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीं।पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियंवात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥१ श्रीमन् कृपाजलनिधे कृतसर्वलोकसर्वज्ञ शक्त नतवत्सल सर्वशेषिन्।स्वामिन् सुशीलसुलभाश्रितपारिजातश्रीवेङ्कटेशचरणौ शरणं प्रपद्ये॥२ आनूपुरार्पितसुजातसुगन्धिपुष्पसौरभ्यसौरभकरौ समसन्निवेशौ।सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौश्रीवेङ्कटेशचरणौ शरणं प्रपद्ये॥३ सद्योविकासिसमुदित्वरसान्द्ररागसौरभ्यनिर्भरसरोरुहसाम्यवार्तां।सम्यक्षु साहसपदेषु विलेखयन्तौश्रीवेङ्कटेशचरणौ शरणं प्रपद्ये॥४ रेखामयध्वजसुधाकलशातपत्रवज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः।भव्यैरलङ्कृततलौ परतत्व चिन्हैःश्रीवेङ्कटेशचरणौ शरणं प्रपद्ये॥५ ताम्रोदरद्युतिपराजितपद्मरागौबाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ।उध्यन्नखांशुभिरुदस्तशशाङ्कभासौश्रीवेङ्कटेशचरणौ शरणं प्रपद्ये॥६ सप्रेमभीति कमलाकरपल्लवाभ्यांसंवाहनेऽपि सपदि क्लममादधानौ।कान्ताववाङ्ग्मनसगोचरसौकुमार्यौश्रीवेङ्कटेशचरणौ शरणं प्रपद्ये॥७ लक्ष्मीमहीतदनुरूपनिजानुभावनीलादिदिव्यमहिषीकरपल्लवानां।आरुण्यसङ्क्रमणतः किल सान्द्ररागौश्रीवेङ्कटेशचरणौ शरणं प्रपद्ये॥८ नित्यान्नमद्विधिशिवादिकिरीटकोटिप्रत्युप्त … Read more Shri Venkatesh Prapatti Lyrics